|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.28. अध्यायः 028
Mahabharata - Drona Parva - Chapter Topics
भगदत्तार्जुनसमागमः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-28-0x(4323)(45967)
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान्।
सम्प्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय सन्त्वरन्॥ 7-28-1(45968)
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान्।
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात्॥ 7-28-2(45969)
ततः श्वेतहयः कृष्णमब्रवीदजितञ्जयः।
एष मां भ्रातृभिः सार्धं सुशर्माऽऽह्वयतेऽच्युत॥ 7-28-3(45970)
दीर्यते चोत्तरेणैव तत्सैन्यं मधुसूदन।
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम्॥ 7-28-4(45971)
किन्नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान्।
इति मे त्वं मतं वेत्सि तत्र किं सुकृतं भवेत्॥ 7-28-5(45972)
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत्।
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत्॥ 7-28-6(45973)
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत॥ 7-28-7(45974)
त्रिगर्ताधिपतेश्चापि भ्रातरं षङ्भिराशुगैः।
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम्॥ 7-28-8(45975)
ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम्।
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम्॥ 7-28-9(45976)
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः।
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तयत्॥ 7-28-10(45977)
तं वासवमिवायान्तं भूरिवर्षं शरौघिणम्।
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत्॥ 7-28-11(45978)
ततो धनञ्जयो बाणैः सर्वानेव महारथान्।
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः॥ 7-28-12(45979)
तस्य वेगमसह्यं तं कुन्तीपुत्रस्य धीमतः।
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः॥ 7-28-13(45980)
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः।
सुपर्ण इव नागेन्द्रं प्रायात्प्राग्ज्योतिषं प्रति॥ 7-28-14(45981)
यत्तदानामयज्जिष्णुर्भरतानामपापिनाम्।
धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम्॥ 7-28-15(45982)
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः।
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः॥ 7-28-16(45983)
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी।
व्यशीर्यत महाराज नौरिवासाद्य पर्वतम्॥ 7-28-17(45984)
ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम्।
मतिं कृत्वा रणे क्रूरां वीरा जयपराजये॥ 7-28-18(45985)
व्यपेतहृदयत्रासा आवव्रुस्तं महारथाः।
आर्च्छत्पार्थो गुरुं भारं सर्वभारसहो युधि॥ 7-28-19(45986)
यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः।
मृद्गीयात्तद्वदायस्तः पार्थोऽमृद्गाच्चमूं तव॥ 7-28-20(45987)
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः।
तेन नागेन सहसा धनञ्जयमुपाद्रवत्॥ 7-28-21(45988)
तं रथेन नरव्याघ्रः प्रत्यगृह्णाद्धनञ्जयः।
स सन्निपातस्तुमुलो बभूव नरनागयोः॥ 7-28-22(45989)
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च।
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ॥ 7-28-23(45990)
ततो जीमूतसङ्काशान्नागादिन्द्र इव प्रभुः।
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम्॥ 7-28-24(45991)
स चापि शरवर्षं तं शरवर्षेण वासिवः।
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्॥ 7-28-25(45992)
ततः प्राग्ज्योतिषो राजा शरवर्षे निवारिते।
संरक्तनयनो रोषात्पार्थं पुनरवाकिरत्॥ 7-28-26(45993)
स तथा शरवर्षेण पार्थं समभिहत्य वै।
चोदयामास तं नागं वधायाच्युतपार्थयोः॥ 7-28-27(45994)
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम्।
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः॥ 7-28-28(45995)
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम्।
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः॥ 7-28-29(45996)
स तु नागो द्विपरथान्हयांश्चामृद्य मारिष।
प्राहिणोन्मृत्युलोकाय ततः क्रुद्धो धनञ्जयः॥ ॥ 7-28-30(45997)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे अष्टाविंशोऽध्यायः॥ 28 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-28-16 आयच्छद्गृहीतवान्। यदेवार्जुनस्य धनुर्भरतानां क्षेमकरमासीत्तदेव त्वत्पुत्रनिमित्तं क्षत्रक्षयकरमभवदिति वाक्यार्थः 5-28-28 अष्टाविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|